|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.35. अध्यायः 035
Mahabharata - Vana Parva - Chapter Topics
भीमेन युधिष्ठिरंप्रति सोपपत्तिकं वनवासापूरणेनैव दुर्योधननिग्रहचोदना ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
भीमसेन उवाच। 3-35-0x(1861)(17046)
सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा।
अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा ॥ 3-35-1(17047)
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः।
फेनधर्मा महाराज फलधर्मा तथैव च ॥ 3-35-2(17048)
निमेषादपि कौन्तेय यस्यायुरपचीयते।
सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत् ॥ 3-35-3(17049)
यो नूनममितायुः स्यादथवाऽऽयुःप्रमाणवित्।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥ 3-35-4(17050)
प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश।
आयुषोपचयं कृत्वा मरणायोपनेष्यति ॥ 3-35-5(17051)
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥ 3-35-6(17052)
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः।
अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥ 3-35-7(17053)
यो न यातयते वैरमल्पसत्वोद्यमः पुमान्।
अफलं जन्म तस्याहं मन्ये दुर्जातजीविनः ॥ 3-35-8(17054)
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी।
हत्वा द्विषन्तं संग्रामे भुङ्क्ष्व बाहुजितं वसु ॥ 3-35-9(17055)
हत्वा वै पुरुषो राजन्निकर्तारमरिंदम्।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥ 3-35-10(17056)
अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः।
येनाहमभिसंतप्तो न नक्तं न दिवा शये ॥ 3-35-11(17057)
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे।
आस्ते परमसंतप्तो नूनं सिंह इवाशये ॥ 3-35-12(17058)
योऽयमेको नुदेत्सर्वांल्लोके राजन्धनुर्भृतः।
सोयमात्मजमूष्माणं ग्रहाहस्तीव यच्छति ॥ 3-35-13(17059)
नकुलः सहदेवश्च वृद्धा माता च वीरसूः।
तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥ 3-35-14(17060)
सर्वे तेऽप्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः।
अहमेकश्च संतप्तो माता च प्रतिबिन्ध्यतः ॥ 3-35-15(17061)
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन।
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥ 3-35-16(17062)
नातः पापीयसी काचिदापद्राजन्भविष्यति।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥ 3-35-17(17063)
शीलदोषाद्धृणाविष्ट आनृशंस्यात्परंतप।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥ 3-35-18(17064)
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ 3-35-19(17065)
घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥ 3-35-20(17066)
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्।
क्रूरान्निकृतिसंपन्नान्विहितानशमात्मकान् ॥ 3-35-21(17067)
धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ॥ 3-35-22(17068)
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च।
तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्।
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥ 3-35-23(17069)
अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च।
दिवीव पार्थ सूर्येण न शक्याऽऽचरितुं त्वया ॥ 3-35-24(17070)
बृहत्साल इवानूपे शाखापुष्पपलावान्।
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्ति ॥ 3-35-25(17071)
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू।
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥ 3-35-26(17072)
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्।
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥ 3-35-27(17073)
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः।
अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम् ॥ 3-35-28(17074)
तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः।
राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः ॥ 3-35-29(17075)
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः।
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥ 3-35-30(17076)
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान्।
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम् ॥ 3-35-31(17077)
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश।
परिमाणएन तान्पश्य तावतः परिवत्सरान् ॥ 3-35-32(17078)
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः।
पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥ 3-35-33(17079)
अथवाऽनडुहे राजन्साधने साधुवाहिने।
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते ॥ 3-35-34(17080)
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया।
क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात् ॥ 3-35-35(17081)
इति श्रीमन्महाभारेत अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चस्त्रिंशोऽध्यायः ॥ 35 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-35-1 पतत्रिणा बाणवत् शीघ्रगामिना स्रोतसा नित्यवाहिना ॥ 3-35-2 प्रत्यक्षं प्रत्यक्षेण ज्ञातम्। कालबन्धनः कालवश्यः फेनधर्मा निःसारः। फलधर्मा पतनशीलः ॥ 3-35-3 सूच्येवाञ्जनचूर्णस्य। यथा कज्जलक्षोदस्यातिश्लक्ष्णस्य सूक्ष्माग्रया सूच्यापि किंचिदपत्रीयते एवं निमेषादपि यस्यायुरपचीयते स किमिति अवधिं प्रतिपालयेन्न कथमपीत्यध्याहृत्य योज्यम्। सूच्येवाञ्जनचूर्णस्येति झ. पाठः ॥ 3-35-7 प्रसंख्यानं प्रकृष्ठां साधुकीर्तिम्। यतः अस्पष्टः शौर्याद्यभावादितरैरविदितः। भूमिवर्धनः भूमिहिंसकः। भूमेर्भारभूत इत्यर्थः। अयातयित्वा अनिस्तीर्य। गौर्बलीवर्दइव। सोप्यशक्तश्चेत् गोषु संख्यानं स्पष्टतां वाप्य प्राप्नुवन्भूमेर्भारभूतो भवति ॥ 3-35-8 दुर्जातशायिन इति क. पाठः ॥ 3-35-9 हैरण्यौ हिरण्यस्वामिनौ। श्रुतिः कीर्तिः। पार्थिवी पृथोः राज्ञ इवेत्यर्थः ॥ 3-35-10 निकर्तारं वञ्चकम्। अह्नाय सद्यः ॥ 3-35-12 आशये स्वस्थाने ॥ 3-35-15 प्रतिविन्ध्यतः प्तिविन्ध्यस्य माता द्रौदी ॥ 3-35-19 अनुवाकः गुरूक्तिमनुवचनं तेन हता। अर्थज्ञानसून्यस्य। वेदाक्षरमात्राभ्यासिनः ॥ 3-35-20 घृणी दयालुः ॥ 3-35-22 आस्से तूष्णींभूतोसि। पीठसर्पवत् अजगरवत् ॥ 3-35-23 संवर्तुं संवरीतुं छादितुम् ॥ 3-35-25 अनूपे बहुजे देशे ॥ 3-35-30 निकर्तव्यं नीयं सूचनादिकर्म कर्तव्यम् ॥ 3-35-34 अनडुहे पूर्णं घासमुपाहृत्यानृतान्मुच्यत इति धर्मशास्त्रोक्तं प्रायश्चित्तं वा कर्तव्यमित्याहाथवेति। सौहित्यमातृप्तिभोजनम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|